You cannot copy content of this page

CBSE Previous Year Question Papers Class 10 Sanskrit 2018

CBSE Previous Year Question Papers Class 10 Sanskrit 2018

अवधि: होरात्रयम्
पूर्णाङ्का: 80

रखण्डः क 10
अपठितांश – अवबोधनम् (अपठितांश – अवबोधन)

प्रश्न 1.
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत :
निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में दीजिए।

कस्मिंश्चित् ग्रामे कदाचन अशीतिवर्षीयः एको वृद्धः मार्गे आम्रवृक्षान् आरोपयति स्म। तं दृष्ट्वा महानगरात् आगच्छन् कश्चन युवा पृष्टवान् — भो महानुभाव ! तव अवस्था प्रायशः अशीतिवर्षीया प्रतीयते । एतत् च स्वाभाविकं यदा एते वृक्षाः फलानि दास्यन्ति, तदा त्वं जीवितो न भविष्यसि । अतः किमर्थम् इमं निष्फलं प्रयासं करोषि ? स वृद्धः उक्तवान् – मया साम्प्रतम् इतरै: आरोपितानां वृक्षाणां फलानि खाद्यन्ते । एवं मयापि आरोपितानाम् एतेषां वृक्षाणां फलानि आगामिभविष्यत्काले लोकाः खादेयुः – इत्येतदर्थम् अहम् एतेषाम् आरोपणं करोमि। वस्तुतः मनुष्येण केवल स्वार्थचिन्तनं न कर्तव्यम्।

प्रश्नाः
I. एकपदेनोत्तरतएक शब्द में उत्तर दीजिए। [1/2 × 4 = 2]
(i) कश्चन युवा कुतः आगच्छति स्म?
(ii) मनुष्येण केवलं किं न कर्तव्यम् ?
(iii) ‘तरुः’ इत्यर्थे कः पर्यायशब्दः अत्र प्रयुक्तः ?
(iv)’‘मृतः’ इत्यस्य विपरीतार्थकं पदं किम् ?
उत्तर:
(i) महानगरात्
(ii) स्वार्थचिन्तनम्
(iii) वृक्षाः
(iv) जीवितो

II. पूर्णवाक्येनोत्तरत-
पूर्ण वाक्य में उत्तर दीजिए। [2 × 2 = 4]
(i) वृद्धः किं विचार्य वृक्षाणाम् आरोपणं करोतिस्म ?
(ii) युवा तं वृद्धं किम् अपृच्छत् ?
उत्तर:
(i) मया साम्प्रतम् इतरैः आरोपितानां वृक्षाणां फलानि खाद्यन्ते।
(ii) भो महानुभाव! तव अवस्था प्रायशः अशीतिवर्षीया प्रतीयते यदा एते वृक्षाः फलानि दास्यन्ति, तदा त्वं जीवितो न भविष्यति

III. प्रदत्तविकल्पेभ्यः चितम् उत्तरं चित्वा लिखत। दिए गए विकल्पों में से उचित उत्तर चुनकर लिखिए। [4 × 4 = 2]
(i) ‘आरोपयति स्म’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) युवा
(ख) वृद्धः
(ग) वृक्षाः ।
(घ) लोकाः।
(ii) ‘प्रयासम्’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम् ?
(क) प्रायशः
(ख) निष्फलम्
(ग) युवा
(घ) साम्प्रतम्।
(iii) अधुना’ इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
(क) स्वाभाविकम्
(ख) साम्प्रतम्
(ग) एवम
(घ) युवा।
(iv) वृद्धः’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(क) जीवित
(ख) लोकाः
(ग) युवा
(घ) मया।
उत्तर:
(i) (ख) वृद्धः
(ii) (ख) निष्फलम् ।
(iii) (ख) साम्प्रतम् ।
(iv) (ग) युवा

IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए। [2]
उत्तर:
उपयुक्त शीर्षक: – मनुष्येण केवल स्वार्थचिन्तनम् न कर्तृणाम् |

खण्डः ख 15
रचनात्मककार्यम् (रचनात्मक कार्य)

प्रश्न 2.
सखीं प्रति लिखितम् अधःपत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत।
सखी को लिखे गए निम्नलिखित पत्र को मञ्जूषा में दिए गए शब्दों की सहायता से पूर्ण कर पुनः लिखिए। [1/2 × 10 = 5]
शिमलानगरात्
दिनाङ्कः ……..
प्रिये शकुन्तले !
सप्रेम (i) ___ ।
अद्यैव तव पत्रं प्राप्तम्। तव अर्धवार्षिकीपरीक्षा (ii) ___ । त्वं च परीक्षापरिणामं (iii) ___ अत्रान्तरे, त्वं (iv) ___ आगच्छ । अत्र शैत्यं प्रवृद्धम्। (v) ___ । प्रारम्भे हिमपात: (vi) ___ यदा हिमपातो भवति, तदा वृक्षाः वनस्पतयः, राजमार्गाः श्वेतवर्णवस्त्रैः आच्छादिताः इव (vii) ___ शोभन्ते। देशस्य विभिन्नभागेभ्यः (viii) ___ एतद् द्रष्टुम् अत्र आगच्छन्ति । मम गृहे सर्वे (ix) ___ वीक्ष्य प्रसन्नाः भविष्यन्ति । आशासे त्वं नूनम् आगमिष्यसि । गृहे सर्वेभ्यः मम प्रणामाञ्जलयः
(x) ___
तव अभिन्नहृदया
प्रियंवदा

मञ्जूषा
निवेदनीयाः पर्यटका, त्वाम, नमो-नमः, सम्पन्ना, प्रतीक्षसे, | सम्भाव्यते, शिमलानगरम्, आगामिमासस्य।
उत्तर:
शिमलानगरात्
दिनाङ्कः 1 जनवरी 20xx
प्रिये शकुन्तले !
सप्रेम (i) नमोनमः ।
अद्यैव तव पत्रं प्राप्तम् । तव अर्धवार्षिकीपरीक्षा (ii) सम्पन्ना त्वं च परीक्षापरिणामं (iii) प्रतीक्षसे अत्रान्तरे, त्वं (iv) शिमलानगरम् आगच्छ। अत्र शैत्यं प्रवृद्धम् । (v) आमामिमासस्य प्रारम्भे हिमपात: (vi) सम्भाव्यते । यदा हिमपातो भवति, तदा वृक्षा: वनस्पतयः, राजमार्गा : श्वेतवर्ण वस्त्रे : आच्छादिताः इव (vii) अतीव शोभन्ते। देशस्य विभिन्नभागेभ्यः (viii) पर्यटका एतद् द्रष्टुम् अत्र आगच्छन्ति । मम गृहे सर्वे (ix) त्वाम वीक्ष्य प्रसन्नाः भविष्यन्ति । आशासे त्वं नूनम् आगमिष्यसि । गृहे सर्वेभ्य: मम प्रणामाञ्जलयः (x) निवेदनीयाः
तव अभिन्नहृदया।
प्रियंवदा

प्रश्न 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत-
नीचे दिए गए चित्र का वर्णन मञ्जूषा में दिए गए शब्दों की सहायता से पाँच संस्कृत वाक्यों में कीजिए। [2 × 5 = 10]
CBSE Previous Year Question Papers Class 10 Sanskrit 2018 1
मजूषा-
व्याधः, तण्डुलान्, प्रसार्य, जालम्, प्रासारयत्, वने, वृक्षाः, कपोताः, मिलित्वा, आदाय, नभसि, उड्डीय, अन्यत्र, धावति, नष्टम् ।।
उत्तर:
(क) अस्मिन् चित्रे वने वृक्षाः कपोता: च सन्ति।
(ख) व्याधः वने तण्डुलान् प्रासारयत् ।
(ग) कपोता: मिलित्वा जालम् आदाय नभसि उड्डयन ।
(घ) व्याधः जालं दृष्ट्वा धावति।
(ङ) कपोता: मिलित्वा जालम् उड्डीय नभसि अगच्छन्।
अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत। मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए। [2 × 5 = 10]
‘स्वतन्त्रता दिवस’

मञ्जूषा-
अगस्तमासे, पञ्चदशे, दीर्घकालिक, परतन्त्रतानन्तरम्, मुख्यसमारोहः, राजधान्याम्, रक्तदुर्ग प्राचीरे राष्ट्रियध्वजः, प्रधानमन्त्री, विद्यालयीयछात्राः, वातावरणम्, राज्यानां राजधानी, अभिवादनम्, आयोज्यते, राष्ट्रियसम्बोधनम्।
उत्तर:
(क) दीर्घकालिक-परतन्त्रतानन्तरम् अगस्तमासे पञ्चदशे अस्माकं देश: स्वतंत्रः अभवत् ।
(ख) अस्मिन् दिवसे प्रधानमन्त्री रक्तदुर्गप्राचीरे राष्ट्रीयध्वजस्य आरोहरम् अभिवादनम् च करोति ।
(ग) प्रधानमन्त्री राष्ट्रीय सम्बोधनम् करोति ।
(घ) अस्मिदिवसे राजधान्याम् मुख्य समारोह: आयोज्यते ।
(ङ) अस्मिन् दिवसे राज्यानां राजधानीषु विद्यालयीयछात्रैः राष्ट्रियध्वजस्य अभिवादनम् आयोज्यते ।।

रवण्डःग [25]
अनुप्रयुक्तव्याकरणम् (अनुप्रयुक्त व्याकरण)

प्रश्न 4.
अधोलिखितवाक्येषु रेखाङ्कितसन्धिं सन्धिच्छेदं वा कृत्वा लिखत ।
निम्नलिखित वाक्यों में रेखांकित पदों में सन्धि अथवा सन्धिविच्छेद करके लिखिए। [1 × 4 = 4]
(i) अस्य नाटकस्य नै + अकः कः अस्ति ?
(ii) मदोद्धता: कपयः अवदन् ।
(iii) तस्य राज्ञः एक + छत्रं राज्यम् आसीत् ।
(iv) कृष्ण: चलति कुरुक्षेत्रे ।
उत्तर:
(i) नायकः
(ii) मद + उद्धता:
(iii) एकच्छत्रं
(iv) कृष्णश्चलति |

प्रश्न 5.
अधोलिखितवाक्येषु रेखाङ्किपदानां समासं विग्रहं वा प्रदत्त विकल्पेभ्यः चित्वा लिखत-

निम्नलिखित वाक्यों में रेखांकित पदों को समास अथवा विग्रह दिए गए विकल्पों में से चुनकर लिखिए। [1 × 4 = 4]
(क) अद्य राष्ट्रपतेः भवने संस्कृतविदुषां सम्मानसमारोहः आयोज्यते।
(i) राष्ट्रपतिनिवासे
(ii) राष्ट्रपतीयभवने
(iii) राष्ट्रपतिभवने।
(ख) कदापि अनृतं न वक्तव्यम्।
(i) ने ऋतम् ।
(ii) अनु + क्त
(iii) ऋत + न।
(ग) माता-पितरौ प्रणम्य परीक्षाभवनं गच्छ।
(i) माता च पितरौ च
(ii) माता च पिता च
(iii) मातरौ च पितरौ च ।
(घ) एतद् आचरणं साधुजनस्य रूपस्य योग्यं नास्ति ।
(i) रूपयोग्यम्
(ii) रूपस्य निकटे
(iii) अनुरूपम्।
उत्तर:
(क) (iii) राष्ट्रपतिभवने
(ख) (i) न ऋतम्
(ग) (ii) माता च पिता च
(घ) (iii) अनुरूपम् ।

प्रश्न 6.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत।
निम्नलिखित वाक्यों में रेखांकित पदों के प्रकृति प्रत्ययों को जोड़कर या पृथक् करके उचित उत्तर विकल्पों में से चुनकर लिखिए। [1 × 4= 4]
(क) आपद्गतेनापि एतद् अस्त्रं मानवेषु न प्र + युज् + तव्यत्
(i) प्रयोजनीयम्
(ii) प्रयोक्तव्यम्।
(iii) प्रयुक्तम् ।
(ख) भवान् जानाति द्रौणेः चपलाम् प्रकतिम्।
(i) चपल + टाप्
(ii) चपल + ला
(iii) चपल + आम्।
(ग) यथासमयं सर्वेषां महत्वं विद्यते।
(i) महत् + त्व
(ii) महान् + त्वम् ।
(iii) महत् + तु।
(घ) धैर्यवान् जनः लोके पराभवं न प्राप्नोति ।
(i) धैर्य + मतुप् ।
(ii) धैर्य + क्तवतु ,
(iii) धैर्य + शानन्।
उत्तर:
(क) (ii) प्रयोक्तव्यम्
(ख) (i) चपल + टाप् ।
(ग) (i) महत् + त्व
(घ) (i) धैर्य + मतुप्

प्रश्न 7.
अधोलिखितं संवादं मञ्जूषायां प्रदत्तैः पदै वाच्यपरिवर्तन कृत्वा पूरयित्वा च पुनः लिखत।। अधोलिखित संवाद को मञ्जूषा में दिए गए शब्दों की सहायता से वाच्य परिवर्तन करते हुए सम्पूर्ण संवाद पुनः लिखिए। [1 × 3 = 3]
रमेशः – किम् अशोकः पाठं पठति ?
सुधा – आम्, अशोकेन (i) ___ पठ्यते।
सुधाकरः – किं दिनेशः अध्यापकं नमस्करोति ? ।
अशोकः – आम्, (ii) ___ अध्यापक : नमस्क्रियते ।
शिक्षकः – किं तव माता आपणात् फलानि आनयति ?
छात्रः – आम्, मम मात्रा आपणात् फलानि (iii) ___।
संवाद :
रमेशः – किम् अशोकः पाठं पठति ?
सुधा – आम्, अशोकेन पाठः पठ्यते ।
सुधाकरः – किं दिनेशः अध्यापकं नमस्करोति ?
अशोकः – आम्ए दिनेशेन अध्यापकः नमस्क्रियते।
शिक्षकः – किं तव माता आपणात् फलानि आनयति ?
छात्रः – आम्, मम मात्रा आप्रणात् फलानि आनीयन्ते।

मञ्जूषा
आनीयन्ते दिनेशेन, पाठः,।

प्रश्न 8.
अधोलिखितदिनचर्यायां रिक्तस्थानानि कालबोधकशब्दैः पूर्यन्ताम्।
अधोलिखित दिनचर्या में रिक्त स्थानों की पूर्ति कालबोधक शब्दों से कीजिए। [1/2 × 4 = 2]
(i) मम भ्राता प्रात: 5.00 भ्रमणार्थं गच्छति।
(ii) अहं प्रात: 8.30 कार्यालयं गच्छामि।
(iii) तव माता मध्या 2.00 विद्यालयात् आगच्छति।
(iv) मम जनकः सायं 7.30 गृहं प्राप्नोति।
उत्तर:
(i) मम भ्राता प्रातः पञ्चवादने भ्रमणार्थं गच्छति।
(ii) अहं प्रातः सार्धाष्टवादने कार्यालयं गच्छति।
(iii) तव माता मध्या द्विवादने विद्यालयात् आगच्छति।
(iv) मम जनक: सायं सार्धसप्तवादने गृहं प्राप्नोति।

प्रश्न 9.
अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जूषाप्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत। निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति मजूषा में दिए गए अव्यय पदों के द्वारा कीजिए। [1 × 4 = 4]

(i) किं त्वम् ___ वाराणस गमिष्यसि।
(ii) प्रातः कालः संजातः, ___ निद्रा न युज्यते ।
(iii) सः सर्वं वृत्तान्तं निवेद्य सकरुणम् ___ अक्रन्दत् ।
(iv) अश्वाः प्राणत्राणाय ___ अंधावन्।

मञ्जूषा
इतस्ततः, अपि, उच्चैः, सम्प्रति ।
उत्तर :
(i) अपि
(ii) सम्प्रति
(iii) उच्चैः
(iv) इतस्ततः

प्रश्न 10.
अधोलिखितवाक्येषु रेखाङ्किपदम् अशुद्धम् अस्ति। अशुद्धं पदं संशोध्य पुनः लिखत।
निम्नलिखित वाक्यों में रेखांकित पद अशुद्ध हैं। अशुद्ध पद को संशोधित कर पुनः लिखिए। [1 × 4 = 4]
(i) द्वे बालिके विद्यालयं गच्छति
(ii) किम् अहं सर्वे पुस्तकानि आदाय गच्छानि?
(iii) विजयः भ्रमणार्थं श्वः न गच्छति
(iv) किं शकुन्तला अध्ययने रतः अस्ति?
उत्तर:
(i) द्वे बालिके विद्यालयं गच्छतः।
(ii) किं अहम् सर्वाणि पुस्तकानि आदाय गच्छानि?
(iii) विजयः भ्रमणार्थ श्वः न गमिष्यति।
(iv) किं शकुन्तला अध्ययने रता अस्ति ?

खण्डः घ
पठित – अवबोधनम् (पठित-अवबोधन)

प्रश्न 11.
अधोलिखित गद्यांश, पद्यं, नाटयांशं च पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। निम्नलिखित गद्यांश, पद्य और नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।
(अ) गद्यांशः-
राजा उवाच – भगवन् ! भवन्मनोरथं पूरयित्वा आत्मानम् । अनुगृहीतं कर्तुम् इच्छामि। आदिश्यताम् – ‘किं करवाणि ?’ विप्रः उवाच – यदि भवान् प्रीतः तदा त्वत्त: एकस्य चक्षुषः दानम् इच्छामि, येन मम लोकयात्रा निर्बाधा भवेत् । तत् श्रुत्वा राजा अचिन्तयत् – लोके चक्षुर्दानं दुष्करम् एव । नूनम् ईदृशं दानम् इच्छन् अयं याचकः केनापि प्रेरित: स्यात् । अथवा भवतु नाम। इति विचार्य राजा अभाषत – भो मित्र ! किमेकेन चक्षुषा । अहं भवते ‘ चक्षुर्द्वयमेव प्रयच्छामि।

प्रश्नाः
I. एकपदेन उत्तरत।
एक शब्द में उत्तर दीजिए। [1 × 2 = 2]
(i) लोक चक्षुर्दानं दुष्करमेव’ इति कः अचिन्तयत् ?
(ii) राजा कम् अनुगृहीतं कर्तुम् इच्छति ?
II. पूर्णवाक्येन उत्तरत।
पूर्ण वाक्य में उत्तर दीजिए। [2 × 1 = 2]
‘विप्रः राजानं किम् उक्तवान् ?
III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत।
दिए गए विकल्पों में से चित उत्तर चुनकर लिखिए। [4 × 4 = 2]
(क) अनुच्छेदे ‘लोकयात्रा’ इत्यस्य किं विशेषणम् ?
(i) प्रीतः
(ii) निर्बाधा
(iii) चक्षुर्द्वयम्।
(ख) उवाच’ इति क्रियापदस्य कर्तृपदं किम् ?
(i) विप्रः
(ii) याचकः
(iii) राजा।
(ग) ‘तव’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(i) भवते
(ii) मम
(iii) विप्रः ।
(घ) “मम लोकयात्रा’ इत्यत्र ‘मम’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(i) राज्ञे ।
(ii) विप्राये
(iii) लोकाय।।
उत्तर:
I. (अ) राजा
(ब) आत्मानम्
II. “यदि भवान् प्रीतः तदा त्वत: एकस्य चक्षुषः दानम् इच्छामि, येन मम् लोकयात्रा निर्बाधा भवेत्।
III.
(क) (ii) निर्बाधा
(ख)(i) विप्रः या (iii) राजा
(ग) (ii) मम
(घ) (ii) विप्राय

(आ) पद्यम्
चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवदृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ।

प्रश्नाः
I. एकपदेन उत्तरत।
एक शब्द में उत्तर दीजिए। [1 × 2 = 2]
(i) कस्य निग्रहम् अर्जुनः सुदुष्करं कथयति ?
(ii) चञ्चलं किम अस्ति ?
II. पूर्णवाक्येन उत्तरत।
पूर्णवाक्य में उत्तर दीजिए। [2 × 1 = 2]
मनः कीदृशम् भवति ?
III. प्रदत्तविकल्पेभ्यः चितम् उत्तरं चित्वा लिखत। दिए गए विकल्पों में से उचित उत्तर चुनकर लिखिए। [4 × 4 = 2]
(क) श्लोके ‘अतिकठिनम्’ इत्यर्थे कि पर्यायपदं प्रयुक्तम् ?
(i) चञ्चलम्
(ii) प्रमाथि
(iii) सुदुष्करम्।
(ख) “मन्ये’ इति क्रियापदस्य कर्तृपदं किम् ?
(i) कृष्णः
(ii) मनः
(iii) अहम्।
(ग) ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(i) श्रीकृष्णाय
(ii) अर्जुनाय
(iii) मनसे।
(घ) स्थिरम्’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(i) प्रमाथि
(ii) दृढम्
(iii) चञ्चलम्
उत्तर:
I. (i) मनसः
(ii) मनः
II.
पूर्ण वाक्य में उत्तर
मन: चञ्चलं भवति ।
III.
(क) (i) सुदुष्करम्
(ख) (ii) अहम् ।
(ग) (i) अर्जुनाय
(घ) (iii) चञ्चलम् ।

(इ) नाट्यांशः
हिमांशुः – अहं चिन्तयामि यत् ‘अरुणः’ तु सूर्यस्य पर्यायः। अस्य प्रकाश: सर्वप्रथमम् इमं प्रदेशं स्पृशति । अतः अरुणस्य प्रदेशः अरुणाचलः।
पर्यटनाधिकारी – शोभनम् । उचितम् उक्तम् । हिमाद्रितुङ्गशृङ्ग सुशोभिता सूर्योदयभूमि: इयम् । अत: अरुणाचलः । अस्मिन् प्रदेशे पञ्चादशधिकाः नद्यः प्रवहन्ति । विपुला च अत्र वनसम्पदा । वनौषधीनां तु अयं स्रोत एव । पुष्पाणां समृद्धिः सुगन्धिः च मनोहरः । शुद्धपर्यावरणेन युक्तस्य अस्य प्रदेशस्य केवलं प्रकृतिः एव ने विविधा मनोहरा च प्रत्युत संस्कृतिः अपि ।

प्रश्नाः
I. एकपदेन उत्तरत।
एक शब्द में उत्तर दीजिए। [1 × 2 = 2]
(क) अस्मिन् प्रदेशे कति नद्यः प्रवहन्ति ?
(ख) कस्य प्रकाशः सर्वप्रथमम् इमं प्रदेशं स्पृशति ?
II. पूर्णवाक्येन उत्तरत।
पूर्ण वाक्य में उत्तर दीजिए। [2 × 1 = 2]
अयं प्रदेश: अरुणाचलः कुतः कथ्यते ?
III. प्रदत्तविकल्पेभ्यः चितम् उत्तरं चित्वा लिखत। दिए गए विकल्पों में से उचित उत्तर चुनकर लिखिए। [4 × 4 = 2]
(क) ‘स्पृशति’ इति क्रियापदस्य कर्तृपदं किम् ?
(i) हिमांशुः
(ii) पर्यटनाधिकारी
(iii) प्रकाशः।
(ख) ‘हिमालय’ इत्यर्थे किं पर्यायपदम् अत्र प्रयुक्तम् ?
(i) सूर्योदयभूमिः
(ii) हिमाद्रिः
(iii) स्रोतः।
(ग) ‘दूषित’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(i) समृद्धि
(ii) मनोहरी
(iii) शुद्ध।
(घ) ‘अयं स्रोत एव’ इत्यत्र ‘अयम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(i) सूर्योदयाय
(ii) वनौषधिभ्यः
(iii) अरुणाचलाय।
उत्तरः
I. (क) पञ्चादशधिकाः
(ख) सूर्यस्य
II. अरुणस्य प्रकाशः सर्वप्रथमम् इमं प्रदेशं स्पृशति । अतः अरुणस्य प्रदेशः अरुणाचलः।
III. (क) (ii) प्रकाशः
(ख) (ii) हिमान्द्रिः
(ग) (i) शुद्ध
(घ) (iii) अरुणाचलाय

प्रश्न 12.
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत। रेखाङ्कित पदों के आधार पर प्रश्न निर्माण कीजिए। [1 × 4 = 4]
(i) शक्रस्य प्रभावेण तस्य एकं चक्षुः प्रतिष्ठितम्।
(ii) बोधिसत्त्वः शिबीना राजा बभूव।
(iii) हा हन्त ! अवधीरिताः अस्माभिः गुरुजनोपदेशाः।
(iv) मौनं धृत्वा मीनान् क्रूरतया भक्षयसि
उत्तर:
(i) कस्य प्रभावेण तस्य एकं चक्षुः प्रतिष्ठितम् ?
(ii) बोधिसत्वः केषां राजा बभूव ?
(iii) हा हन्त ! अवधीरिता: कैः गुरुजनोपदेशाः ?
(iv) मौनं धृत्वा कान् क्रूरतया भक्षयसि ?

प्रश्न 13.
मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकद्वयस्य अन्वयं पूरयत।
मञ्जूषा में से समुचित पद चुनकर निम्नलिखित दोनों श्लोकों के अन्वय को पूर्ण कीजिए। [1/2 × 8 = 4]
(i) शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात्
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः
अन्वयः – यः (i) ___ प्राक् (ii) ___ वेगम् इह एव (iii) ___ शक्नोति सः (iv) ___ युक्तः सः सुखी (भवति)।
(ii) धनस्य नि:सारलघो: स सारो यद् दीयते लोकहितोन्मुखेन
निधानतां याति हि दीयमानम्, अदीयमानं निधनैकनिष्ठम्
अन्वयः -नि:सारलघो: (i) ___ स सारः यत् (ii) ___ दीयते। दीयमानं (धनं) (iii) ___ याति (iv) ___ (धनम्) निधनैकनिष्ठं भवति ।

मञ्जूषा
अदीयमानम्, नरः, लोकहितोन्मुखेन, सोढुम्, निधानताम्, | शरीरविमोक्षणात्, धनस्य, कामक्रोधोद्भवम् ।
उत्तर:
(i)
यः (i) शरीरविमोक्षणात् प्राक्
(ii) कामक्रोधोद्भवं वेगम् इह एव
(iii) सोढुम् शक्नोति सः
(iv) नरः युक्तः सः सुखी (भवति)।
(ii)
नि:सारलघो: (i) धनस्य स सारः यत्
(ii) लोकहितोन्मुखेन दीयते
(iii) निधानताम् याति
(iv) अदीयमानम्( धनम्) निधनैकनिष्ठे भवति।

प्रश्न 14.
अधोलिखितकथनानां समुचितं भावं विकल्पेभ्यः चित्वा लिखत।
निम्नलिखित कथनों का समुचित भाव विकल्पों में से चुनकर लिखिए। [1 × 4 = 4]
(क) स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते।
(i) साहित्यम्
(ii) वाचिकम् ।
(iii) वाक्युक्तम्।
(ख) शुश्रूषा श्रवणं चैव ग्रहणं धारणं यथा।
(i) श्रोतुम् इच्छा
(ii) सेवा
(iii) श्वश्रूः।
(ग) समाः द्वादश पर्जन्यः तद् राष्ट्रं नाभिवर्षति।
(i) मेघः
(ii) परितः
(iii) पश्यतः।
(घ) तदा तस्य पुरतः देवराजः शक्रः उपस्थितः।
(i) शारदा
(ii) इन्द्र
(iii) शिल्पम्।
उत्तर :
(क) (ii) वाचिकम्
(ख) (i) श्रोतुम् इच्छा
(ग) (i) मेघः
(घ) (ii) इन्द्रः

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Free Web Hosting