You cannot copy content of this page

CBSE Previous Year Question Papers Class 10 Sanskrit 2019 Outside Delhi

CBSE Previous Year Question Papers Class 10 Sanskrit 2019 Outside Delhi

अवधि: होरात्रयम्
पूर्णाका : 80

निर्देशा :
(i) अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
(ii) प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
(iii) प्रश्नसंख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया।
(iv) सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।

खण्डः क
अपठितांश-अवबोधनम् (अपठितांश-अवबोधन)

प्रश्न 1.
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।
शिक्षा मानव-विकासस्य परमं साधनम् । शिक्षा ज्ञानोदयेन नैतिक चारित्रिकं च विकास संपादयति । शिक्षा सांस्कृतिक दृष्टिम् उद्बोधयति । वर्तमान-शिक्षा पद्धतौ बालकस्य सर्वाङ्गीण-विकासस्य परिकल्पना अस्ति। अधुना बालाः आधुनिक विषयान् अपि अध्येतुं संप्रेरिताः दृश्यन्ते । यथा हि विज्ञानम् गणितम्, भूगोलम्, इतिहासम्, अर्थशास्त्रम्, राजनीतिशास्त्रम्, संगीतम्, संगणकयन्त्रम् (computer) आद्यः। वर्तमान-शिक्षा-पद्धतौ शिक्षिताः युवका: युवत्यश्च कठिनं श्रमं कृत्वा स्व-स्व क्षेत्रे महत्त्वपूर्णम् साफल्यं प्राप्तवन्तः। अतएव शिक्षा श्रमस्य महत्त्वमपि शिक्षयति। शिक्षिताः युवकाः मानवीयगुणान् प्रति आकर्षिताः भवन्ति । अस्माकं देशे शिक्षा प्राप्त्यै कोऽपि बालः कापि बाला व अर्थाभावं न अनुभवेत् इति शासनं प्रयतेत । यतः शिक्षा न केवलं मानवकल्याणाय अपेक्षिता अपितु सा राष्ट्रगौरवाय अपि महत्त्वपूर्णा ।

प्रश्नाः
(अ) एकपदेन उत्तरत । (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]
एक शब्द में उत्तर दीजिए । (केवल चार प्रश्न)

(i) शिक्षा कस्य महत्त्वं शिक्षयति ?
(ii) मानव-विकासस्य परमं साधनं किम् ?
(iii) शिक्षा कीदृशीं दृष्टिम् उद्बोधयति?
(iv) शिक्षिताः युवका कान् गुणान् प्रति आकर्षिताः भवन्ति ?
(v) बालकस्य सर्वाङ्गीणविकासस्य कुत्र परिकल्पना अस्ति?
उत्तर :
(i) श्रमस्य ।
(ii) शिक्षा।
(iii) सांस्कृतिकीम्।
(iv) मानवीयगुणान् ।
(v) वर्तमान-शिक्षा-पद्धतौ।

(ब) पूर्णवाक्येन उत्तरत । (केवलं प्रश्नद्वयम्)
पूर्ण वाक्य में उत्तर दीजिए। (केवल दो प्रश्न) [1 × 2 = 2]
(i) शिक्षा कीदृशं विकास संपादयति ?
(ii) शासनं किं प्रयतेत ?
(iii) वर्तमान-शिक्षा-पद्धतौ बालकः कान् विषयान् अपि शिक्षेत?
उत्तर:
(i) शिक्षा नैतिक चारित्रिकं च विकास संपादयति ।
(ii) अस्माकं देशे शिक्षा प्रात्यै कोऽपि बाल: कापि बाला वा अर्थाभावं न अनुभवेत् इति शासनं प्रयतेत।
(iii) वर्तमान-शिक्षा-पदधतौ बालकः विज्ञानम्, गणितम्, भूगोलम्, इतिहासम् अर्थशास्त्रम्, राजनीतिशास्त्रम्, संगीतम्, संगणकयन्त्रम् इत्यादयः आधुनिक विषयान् अपि शिक्षेत ।

(स) यथानिर्देशम् उत्तरत । (केवलं प्रश्नचतुष्टयम्)
निर्देशानुसार उत्तर दीजिए । (केवल चार प्रश्न) [1 × 4 = 4]
(क) ‘अस्ति’ इति क्रियापदस्य कर्तृपदं किम् ?
(i) शिक्षा
(ii) परिकल्पना
(iii) बालकः
(ख) ‘शिक्षिताः’ इति विशेषणपदस्य विशेष्यपदं किम्
प्रयुक्तम् ?
(i) बालकाः
(ii) युवकाः
(iii) प्रेरकाः
(ग) ‘सा राष्ट्रगौरवाय अपि महत्त्वपूर्णा’ इति वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
(i) बालायै
(ii) शिक्षायै
(iii) युवत्यै
(घ) “उद्यमः’ इत्यर्थे कि पर्यायपदम् अत्र प्रयुक्तम् ?
(i) विकासम्
(ii) श्रमः
(iii) चारित्रिकम्
(ङ) ‘सरलम्’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(i) दृष्टिम् ।
(ii) विकासम्
(ii) कठिनम्
उत्तर :
(क) ‘अस्ति’ इति क्रियापदस्य कर्तृपदम्-(ii) परिकल्पना
(ख) “शिक्षिताः इति विशेषणपदस्य विशेष्यपदं- (ii) युवका:
(ग) ‘सा राष्ट्रगौरवाय…..’ इति वाक्ये ‘सा इति सर्वनामपदं-(ii) शिक्षायै प्रयुक्तम्।
(घ) “उद्यमः’ इत्यर्थे (ii) श्रमः इति पर्यायपदम् अत्र प्रयुक्तम्।
(ङ) “सरलम’ इत्यस्य (iii) कठिनम् इति विलोमपदम् अत्र प्रयुक्तम्।

(द) अस्य अनुच्छेदस्य कृते उपयुक्त शीर्षकं संस्कृतेन लिखत। [2]
इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।
उत्तर:
शीर्षकम्-शिक्षायाः महत्त्वम्।

खण्डः ख 15
रचनात्मककार्यम् (रचनात्मक कार्य)

प्रश्न 2.
मित्रं प्रति अधोलिखितं पत्रं मजूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत। मित्र को लिखे गए निम्नलिखित पत्र को मजूषा में दिए गए शब्दों की सहायता से पूर्ण कर पुनः लिखिए।
[1/2 × 10 = 5)
कावेरीछात्रावासात्
दिनाङ्कः ____
प्रिय मित्र माधव
(i) ___।
अत्र कुशलं तत्रास्तु । अहं (ii) ___ सज्जायां व्यस्तः आसम् । अत: विलम्बेन तव पत्रस्य उत्तरं ददामि । अस्मिन् वर्षे मयापि गणतन्त्रदिवसस्य शोभायात्रायां भागः (iii) ___ । अस्माकं विद्यालयस्य छात्रा: राजपथे (iv) ___ । प्रदर्शनम् अकुर्वन् । अहं गरबानृत्यस्य (v) ___ आसम्। छात्राणां राष्ट्रगानस्य ओजस्वी ध्वनिः (vi) ___ गुञ्जितम् अकरोत् । स्वराष्ट्रस्य सैन्यबलानां पराक्रम प्रदर्शनानि, विचित्रवर्णानि, परिदृश्यानि, (vii)_ च दृष्टवा अहं गौरवान्तिः अस्मि (viii) ___ बाल्यावस्थायाः स्वप्नः तत्र पूर्णः जातः। (ix) ___ वन्दनीयौ ।
भवतः
(x) ___ महेशः ।।

मञ्जूषा |
गृहीतः, पितरौ, नमस्ते, मम, मित्रम्, राजपथम्, लोकनृत्यस्य, लोकनृत्यानि, गणतन्त्रदिवससमारोहस्य, प्रमुखसञ्चालकः ।
उत्तर :
कावेरीछात्रावासात्
दिनाङ्क 18 मार्च 20XX
प्रिय मित्र माधव,
(i) नमस्ते
अत्र कुशलं तत्रास्तु । अहं (ii) गणतन्त्रदिवससमारोहस्य सज्जायां व्यस्तः आसम् । अतः विलम्बेन तव पत्रस्य उत्तरं ददामि । अस्मिन् वर्षे मयापि गणतन्त्रदिवसस्य शोभायात्रायां भागः (iii) गृहीतः । अस्माकं विद्यालयस्य छात्रः राजपथे (iv) लोकनृत्यस्य । प्रदर्शनम् अकुर्वन् । अहं गरबानृत्यस्य (v) प्रमुखसञ्चालक: आसम्। छात्राणां राष्ट्रगानस्य ओजस्वी ध्वनि: (vi) राजपथम् गुञ्जितम् अकरोत् । स्वराष्ट्रस्य सैन्यबलानां पराक्रमप्रदर्शनानि, विचित्रवर्णानि परिदृश्यानि, (vii) लोकनृत्यानि च दृष्ट्वा अहं गौरवान्तिः अस्मि । (viii) मम बाल्यावस्थायाः स्वप्नः तत्र पूर्णः जातः। (ix) पितरौ वन्दनीयौ ।
भवतः
(x) मित्रम् महेशः।

प्रश्न 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत ।
नीचे दिए गए चित्र का वर्णन मञ्जूषा में दिए गए शब्दों की सहायता से पाँच संस्कृत वाक्यों में कीजिए। [2 × 5 = 10]
CBSE Previous Year Question Papers Class 10 Sanskrit 2019 Outside Delhi 1
वृक्षा: क्रीडावनम्, अधः, बालकाः, दोला, सन्ति, माता, पुत्रः, उपरि, जनाः, क्रीडन्ति, बालिकाः, छत्रम्, आरूढाः, नीचैः, आयान्ति।
अथवा
मञ्जूषाप्रदत्तशब्दाना साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्देदं लिखत ।
मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए ।
‘स्वच्छतायाः महत्त्वम्”
मञ्जूषा
स्वच्छम्, स्वच्छतायाः, शरीरम्, उद्देश्यम्, उपयोगिता, स्थानम्, स्वास्थ्यरक्षायै, वस्त्रादिकम्, जलम्, खाद्यवस्तूनि, मनसि प्रसन्नता, समाजे सम्मानम्, सर्वदा, कर्तव्यम् ।
उत्तर:
चित्रवर्णनम् ।
(1) एतत् चित्रम् उद्यानस्य अस्ति ।
(2) उद्याने वृक्षाः सन्ति ।
(3) बालिका दोलायाम् उपविशति ।
(4) माता नीचैः आगन्तुम् पुत्रस्य साहाय्यं करोति।
(5) उद्याने बहवः बालकाः क्रीडन्ति ।
अथवा
अनुच्छेदलेखनम्
“स्वच्छतायाः महत्त्वम्”
स्वच्छता मानवस्य जीवने अतिशय: आवश्यकी अस्ति। शरीरं स्वच्छं चेत् मनसि अपि प्रसन्नता आगच्छति । स्वास्थ्यरक्षायै वस्त्रादिकं, जलम्, खाद्यवस्तूनि सर्व स्वच्छं भवेत् । परिसरस्य स्वच्छता अस्माकं कर्तव्यम्। स्वच्छतया आरोग्यम उत्तमम् भवति।

खण्डः ग 10 अङ्का
अनुप्रयुक्तव्याकरणम (अनुप्रयुक्त व्याकरण)

प्रश्न 4.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत । (केवलं प्रश्नचतुष्टयम्)
निम्नलिखित वाक्यों में रेखांकित पदों में सन्धि अथवा सन्धि-विच्छेद करके लिखिए। (केवल चार प्रश्न) [1 × 4 = 4]
(i) इदं विशालं भो + अनम् अस्ति ।
(ii) जगत् + नाथः सर्वान् रक्षति ।
(iii) हरिम् + वन्दे
(iv) प्रत्येकम् अयनस्य अवधिः षण्मासाः ।
(v) एकदा पाण्डवाग्रजः युधिष्ठिरः वने जगाम ।
उत्तर:
(i) इदं विशालं भवनम् अस्ति ।
(ii) जगन्नाथः सर्वान् रक्षति ।
(iii) हरिं वन्दे
(iv) प्रति + एकम् अयनस्य अवधिः षण्मासाः ।
(v) एकदा पाण्डव + अग्रजः युधिष्ठिरः वने जगाम।

प्रश्न 5.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्)
निम्नलिखित वाक्यों में रेखांकित पदों का समास अथवा विग्रह दिए गए विकल्पों में से चुनकर लिखिए। [1 × 4= 4] (केवल चार प्रश्न)
(क) पाणी च पादौ च प्रक्षाल्य भोजनं कुरु ।
(i) पाणिपादौ
(ii) पाणिपादम्
(iii) पाणीपादम् ।
(ख) उपगङ्गम् अयं घोषः शोभते ।
(i) गङ्गायाः दूरम्
(ii) गङ्गायाम् एव
(iii) गङ्गायाः समीपम्।
(ग) सारथिः अवदत् अयम् पीतम् अम्बरम् यस्य सः तिष्ठति ।
(i) पीताम्बरः
(ii) पीताम्बरम्
(iii) पीताम्बरा ।
(घ) वयं निर्विघ्नं जीवामः ।
(i) विघ्नेन अभावः
(ii) विघ्नानाम् अभावः
(iii) विघ्नात् अभावः ।
(ङ) अनृतं न ब्रूयात् ।
(i) ऋतं विना
(ii) ऋतेन सह
(iii) न ऋतम् ।
उत्तर:
(क) (ii) पाणिपादम् प्रक्षाल्य भोजनं कुरु ।
(ख) (iii) गङ्गायाः समीपम् अयं घोषः शोभते ।
(ग) सारथिः अवदत् अयम् (i) पीताम्बरः तिष्ठति।
(घ) वयं (ii) विघ्नानाम् अभाव: जीवामः ।
(ङ) (iii) न ऋतम् न ब्रूयात् ।

प्रश्न 6.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्)
निम्नलिखित वाक्यों में रेखांकित पदों में प्रकृति-प्रत्ययों को जोड़कर या पृथक करके उचित उत्तर विकल्पों में से चुनकर लिखिए। (केवल चार प्रश्न) [1 × 4= 4]
(क) शीताधिक्येन कम्प् + शानच् नर्तकी सभागारं गच्छति ।
(i) कम्पमानः
(ii) कम्पमाना
(iii) कम्पायमाना ।
(ख) जनानाम् लौकिक: व्यवहारः अपि अद्भुतः भवति ।
(i) लौक + ठक्
(ii) लोक + ठक्
(iii) लोक + मतुप् ।
(ग) बालिकाभिः राष्ट्रगीतं गै + तव्यत्
(i) गीतव्यम् ।
(ii) गातव्यम्
(iii) गातव्यः ।
(घ) स्वर्णस्य महत् + त्व सर्वे स्वीकुर्वन्ति ।
(i) महताम्
(ii) महत्त्वम्
(iii) महत्व ।
(ङ) दीपिका क्रिकेट-क्रीडायाम् कुशल + टापू अस्ति ।
(i) कुशला
(ii) कुशली
(iii) कुशलिनी ।
उत्तर:
(क) शीताधिक्येन (ii) कम्पमाना नर्तकी सभागारं गच्छति ।
(ख) जनानाम् (ii) लोक + ठक् व्यवहारः अपि अद्भुतः भवति ।
(ग) बालिकाभिः राष्ट्रगीतं (ii) गातव्यम्
(घ) स्वर्णस्य (ii) महत्त्वम् सर्वे स्वीकुर्वन्ति ।
(ङ) दीपिका क्रिकेट-क्रीडायाम् (i) कुशला अस्ति ।

प्रश्न 7.
मञ्जूषायां प्रदत्तैः पदैः वाच्यपरिवर्तनं कृत्वा अधोलिखितं संवादं पुनः लिखत ।
मञ्जूषा में दिए गए शब्दों की सहायता से वाच्य परिवर्तन करते हुए निम्नलिखित संवाद को पुनः लिखिए । [ 1 × 3 = 3]

अरुण:-रमे ! किं त्वं प्रातः पञ्चवादने उत्तिष्ठसि ? रमा-आम् ! मया प्रात: पञ्चवादने (i) ___
अरुणः-किं त्वम् वाटिकां सिञ्चसि ? रमा-आम् ! (ii) ___ वाटिका सिञ्चयते ।
अरुण:-किं सुधा विद्यालयं गच्छति ?
रमा-आम् ! सुधया (iii) ___ गम्यते ।

मञ्जूषा
उत्थीयते, मया, विद्यालयम् ।।

अधोलिखितानां वाक्यानां वाच्यपरिवर्तनं कुरुत । निम्नलिखित वाक्यों में वाच्य-परिवर्तन कीजिए ।
(क) लता पाठं पठति ।
(ख) शिक्षकेन लेखः लिख्यते ।
(ग) सेवकः सेवाम् करोति ।
उत्तर:
अरुणः-रमे ! किं त्वं प्रातः पञ्चवादने उत्तिष्ठसि ?
रमा-आम् ! मया प्रातः पञ्चवादने उत्थीयते ।
अरुणः-किं त्वम् वाटिकां सिञ्चसि ?
रमा-आम् ! मया वाटिका सिञ्च्येते ।
अरुणः-किं सुधा विद्यालयं गच्छति ?
रमा-आम् ! सुधया विद्यालयं गम्यते ।
(क) लतया पाठः पठ्यते ।
(ख) शिक्षकः लेखः लिखति ।
(ग) सेवकेन सेवा क्रीयते ।

प्रश्न 8.
अधोलिखितदिनचर्यायां रिक्तस्थानानि कालबोधकशब्दैः पूरयत । (केवलं प्रश्नचतुष्टयम्)
निम्नलिखित दिनचर्या में रिक्त स्थानों की पूर्ति कालबोधक शब्दों से कीजिए । (केवल चार प्रश्न) [1/2 × 4 = 2]
CBSE Previous Year Question Papers Class 10 Sanskrit 2019 Outside Delhi 2
उत्तर:
(क) अहं प्रात:काले पञ्चवादने सुप्त्वा उत्तिष्ठामि ।
(ख) सार्ध-पञ्चवादने नित्यक्रिया सम्पादयामि ।
(ग) पादोन-षड्वादनं यावत् योगाभ्यासं करोमि ।
(घ) सपाद-षड्वादने अल्पाहारं स्वीकरोमि ।
(ङ) अहं विद्यालय सप्तवादने गच्छामि ।

प्रश्न 9.
अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जूषाप्रदत्तैः चितैः
अव्ययपदैः पूरयत । (केवलं प्रश्नचतुष्टयम्)
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति मञ्जूषा में दिए गए अव्यय पदों के द्वारा कीजिए । (केवल चार प्रश्न) [1 × 4=4]
(क) ईश्वरः …….. व्यापकः अस्ति ।
(ख) बालकाः …….. पादकन्दुकेन क्रीडन्ति ।
(ग) उद्याने …….. पुष्पाणि सन्ति, तत्र भ्रमराः गुञ्जन्ति।
(घ) मन्दिरस्य …….. स्वर्णकलशः स्थापितोऽस्ति ।
(ङ) त्वम् इदानीम् …….. आगच्छसि ?

मञ्जूषा

उपरि, अत्र, कुतः सर्वत्र, यत्र।
उत्तर:
(क) ईश्वरः सर्वत्रः व्यापकः अस्ति ।
(ख) बालकाः अत्र पादकन्दुकेन क्रीडन्ति ।
(ग) उद्याने यत्र पुष्पाणि सन्ति, तत्र भ्रमराः गुञ्जन्ति ।
(घ) मन्दिरस्य उपरि स्वर्णकलशः स्थापितोऽस्ति ।
(ङ) त्वम् इदानीम् कुतः आगच्छसि ?

प्रश्न 10.
अधोलिखितवाक्येषु रेखाङ्कितपदम् अशुद्धम् अस्ति ।
अशुद्धं पदं संशोध्य पुनः लिखत । (केवलं प्रश्नचतुष्टयम्)
निम्नलिखित वाक्यों में रेखांकित पद अशुद्ध है। अशुद्ध पद को संशोधित कर पुनः लिखिए । (केवल चार प्रश्न) [1 × 4 = 4]
(क) बालकौ पाठं पठति ।
(ख) त्वम् ग्रामं गच्छति
(ग) वृक्षात् फलाः पतन्ति ।
(घ) कवि: हयः कवितां पठिष्यति
(ङ) बालिकाः कन्दुकः क्रीडिष्यति ।
उत्तर:
(क) बालकः पाठं पठति ।
(ख) त्वम् ग्रामं गच्छसि
(ग) वृक्षात् फलानि पतन्ति ।
(घ) कविः ह्यः कवितां अपठत्
(ङ) बालिकाः कन्दुकेन क्रीडिष्यति ।

खण्डः घ
पठित-अवबोधनम् (पठित-अवबोधन)।

प्रश्न 11.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । [6]
निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए ।
परशुरामकुण्डं तु लोहितनद्याः किञ्चिद् दूरे अस्ति । पूर्वम् इदं ब्रह्मकुण्डम आसीत। इदं लोहितनद्याः उद्गमस्थलम् इति मन्यते । अत्र अनेकानि दर्शनीयानि स्थलानि अपि सन्ति । अस्माकं पर्यटनविभागेन प्रकाशित केषाञ्चित् प्रसिद्धस्थलानां सूर्ची पठित्वा ज्ञायताम् इमानि पर्यटनस्थलानि । एतेषां दर्शनाय सम्पूर्ण व्यवस्था वर्तते । कार्यक्रमस्तु सुनिश्चितः। जलपानाद् अनन्तरं गमिष्यामः ।

(अ) एकपदेन उत्तरत । (केवलं प्रश्नद्वयम्) [1 × 2 = 2]
एक शब्द में उत्तर दीजिए । (केवल दो प्रश्न)
(क) ‘ब्रह्मकुण्डम्’ कस्याः उद्गमस्थलं मन्यते ?
(ख) कस्तावत् सुनिश्चित: वर्तते ?
(ग) परशुरामकुण्डं पूर्वं किम् आसीत् ?
उत्तर :
(क) लोहितनद्याः ।
(ख) कार्यक्रमः ।
(ग) ब्रह्मकुण्डम् ।

(ब) पूर्णवाक्येन उत्तरत । (केवलं प्रश्नमेकम्) [1 × 2 = 2]
पूर्णवाक्य में उत्तर दीजिए । (केवल एक प्रश्न)
(क) केषां दर्शनाय सम्पूर्ण व्यवस्था वर्तते ?
(ख) प्रसिद्धस्थलानां सूची केन विभागेन प्रकाशिता ?
उत्तरः
(क) प्रसिद्धस्थलानां दर्शनाय सम्पूर्ण व्यवस्था वर्तते ।
(ख) प्रसिद्धस्थलानां सूची पर्यटनविभागेन प्रकाशिता ।

(स) प्रदत्तविकल्पेभ्यः चितम् उत्तरं चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) दिए गए विकल्पों में से उचित उत्तर चुनकर लिखिए। (केवल चार प्रश्न) [1/2 × 4 = 2]
(क) “व्यवस्था” इति कर्तृपदस्य किं क्रियापदं गद्यांशे प्रयुक्तम् ?
(i) आसीत्
(ii) वर्तते
(iii) मन्यते
(ख) “एतेषाम्” इति सर्वनामपदं केभ्यः प्रयुक्तम् ?
(i) पर्यटनस्थलेभ्यः
(ii) उद्गमस्थलेभ्यः
(iii) कुण्डेभ्यः
(ग) ”अनेकानि” इति पदं कस्य पदस्य विशेषणम् ?
(i) ब्रह्मकुण्डम्
(ii) स्थलानि
(iii) एतेषाम् ।
(घ) ‘पश्चात्’ इत्यर्थे कि समानार्थकं पदं प्रयुक्तम् ?
(i) सुनिश्चित:
(ii) व्यवस्था
(iii) अनन्तरम् ।
(ङ) “समीपे” इति पदस्य विलोमपदं किं प्रयुक्तम्?
(i) दूरे
(ii) अत्र
(iii) पूर्वं
उत्तर :
(क) ‘व्यवस्था’ इति कर्तपदस्य क्रियापदं–(ii) वर्तते
(ख) ‘एतेषाम्’ इति सर्वनामपदं (i) पर्यटनस्थलेभ्यः प्रयुक्तम्?
(ग) “अनेकानि’ इति पदं (ii) स्थलानि पदस्य विशेषणम् ?
(घ) “पश्चात्’ इत्यर्थे कि समानार्थकं पदम्। (iii) अनन्तरम् ?
(ङ) “समीपे’ इति पदस्य विलोमपदं (i) दूरे ?

प्रश्न 12.
अधोलिखितं पद्यं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । [6]
निम्नलिखित पद्य को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए ।
पापिनाञ्च सदा दु:खं, सुखं वै पुण्यकर्मणाम् ।
एवं स्थिरतरं ज्ञात्वा साधुवृत्तिं समाचरेत् ।।

(अ) एकपदेन उत्तरते । (केवलं प्रश्नद्वयम्) [1 × 2 = 2]
एक शब्द में उत्तर दीजिए । (केवल दो प्रश्न)
(क) पापिनाञ्च सदां किं भवति ?
(ख) केषां सुखं भवति ?
(ग) जीवने कां समाचरेत् ?
उत्तर :
(क) दुःखम् ।
(ख) पुण्यकर्मणाम्।
(ग) साधुवृत्तिम्।

(ब) पूर्णवाक्येन उत्तरत । (केवलं प्रश्नमेकम्)
पूर्णवाक्य में उत्तर दीजिए । (केवल एक प्रश्न) [2 × 1 = 2]
(क) ‘पापिनां सदा दु:खं भवति’ इति ज्ञात्वा मानवः कीदृशम् आचरणं कुर्यात् ?
(ख) जनैः स्थिरतरं किं ज्ञातव्यम् ?
उत्तर:
(क) पापिनां सदा दुःस भवति’ इति ज्ञात्वा मानवः साधुवृत्ति समाचरेत्।
(ख) ‘पापिनां सदा दु:खं भवति तथा च पुण्यकर्मणां सदा सुखं भवति इति जनैः ज्ञातव्यम्

(स) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं लिखते । (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2] दिए गए विकल्पों में से अचित उत्तर चुनकर लिखिए। (केवल चार प्रश्न)
(क) ‘सुखम्’ इत्यस्य विलोमपदं किं प्रयुक्तम् ?
(i) पुण्यम् ।
(ii) दुःखम्।
(iii) धनम्
(ख) ‘कर्मणाम्’ इत्यस्य विशेषण किम्?
(i) वै
(ii) एवं
(iii) ‘पुण्य’ इति ।
(ग) “समाचरेत्’ इति क्रियापदस्य कर्तृपदं किम् ?
(i) मानव :
(ii) शिशु :
(iii) वृद्ध :
(घ) ‘सर्वदा’ इति पदस्य पर्यायपदं किम् प्रयुक्तम् ?
(i) वै
(ii) एवम्
(iii) सदा
(ङ) “पुण्यकर्मणाम्’ इत्यस्य विलोमपदं किम्?
(i) स्थिरतरम्
(ii) पापिनाम्
(iii) दुःखम् ।
उत्तर:
(क) ‘सुखम्’ इत्यस्य विलोमपदं (ii) दुःखम् ।
(ख) ‘कर्मणाम्’ इत्यस्य विशेषण (iii) ‘पुण्य’ इति ।
(ग) “समाचरेत्’ इति क्रियापदस्य कर्तृपदं (i) मानवः।
(घ) ‘सर्वदा’ इति पदस्य पर्यायपदं (iii) सदा।
(ङ) “पुण्यकर्मणाम्’ इत्यस्य विलोमपदं (ii) पापिनाम् ?

प्रश्न 13.
अधोलिखितं नाट्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
निम्नलिखित नाटयांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।
काक : -रे परभृत ! यदि तव सन्ततिं न पालयामि तर्हि कुत्र स्युः पिकाः ? अतः अहमेव करुणापरः पक्षिसम्राट काकः।
राजहंस :-शान्तं पापम् । अहमेव नीरक्षीरविवेकी पक्षिणां राजा।
बक : – धिक् युष्मान। अहमेव सर्वशिरोमणिः। (ततः प्रविशति प्रकृतिमाता)
प्रकृति : -(सस्ने हम्) अलम् अलं मिथः कलहेन। अहं प्रकृतिः एवं युष्माकं जननी। यूयं सर्वे एवं मम प्रियः। सर्वेषामेव महत्त्वं विद्यते यथासमयम्। सर्वैः एव मे शोभा। न तावत् कलहेन समयं वृथा यापयेत। मिलित्व एव मोदध्वं जीवनं च रसमयं कुरुध्वम् ।

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) [1 × 2 = 2]
एक शब्द में उत्तर दीजिए। (केवल दो प्रश्न)
(क) पिकस्य संततिं कः पालयति ?
(ख) कः आत्मानं ‘नीरक्षीरविवेकी’ इति कथयति?
(ग) आत्मानं ‘करुणापरः पक्षिसम्राट’ इति कः कथयति?
उत्तर:
(क) काकः।
(ख) राजहंसः।
(ग) काकः।
(ब) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नमेकम्) [2 × 1 = 2]
पूर्णवाक्य में उत्तर दीजिए। (केवल एक प्रश्न)
(क) सर्वैः एव कस्याः शोभा वर्तते?
(ख) समयं वृथा कथं न पापयेत् ?
उत्तर:
(क) सर्वैः एव प्रकृत्या: शोभा वर्तते ।
(ख) समयं वृथा कलहेन यापयेत् ।
(स) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत। (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]
दिए गए विकल्पों में से उचित उत्तर चुनकर लिखित। (केवल चार प्रश्न)
(क) ‘करुणापरः’ इति कस्य विशेषणम् ?
(i) बकस्य
(ii) काकस्य
(iii) राजहंसस्य
(ख) ‘अहमेव सर्वशिरोमणिः।’ अत्र ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(i) राजहंसाय
(ii) बकाय
(iii) काकाय ।
(ग) ‘परस्परम’ इति पदस्य समानार्थक किं पदं नाट्यांशे प्रयुक्तम् ?
(i) सर्वे
(ii) युष्माकम् ।
(iii) मिथः।
(घ) ‘सर्वैः एव मे शोभा’ अत्र ‘मे’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(i) बकाय
(ii) राजहंसाय
(iii) प्रकृत्यै ।
(ङ) “पालयामि’ क्रियापदस्य कर्तृपदं किम् ?
(i) काकः
(ii) राजहंसः
(iii) अहम् ।
उत्तर:
(क) ‘करुणापरः’ इति काकस्य विशेषणम्।
(ख) ‘अहमेव सर्वशिरोमणिः’ अत्र ‘अहम्’ इति सर्वनामपदं बकाय प्रयुक्तम्।
(ग) ‘परस्परम’ इति पदस्य समानार्थक मिथः
(घ) “सर्वैः’ एव मे शोभा’ अत्र ‘मे’ सर्वनामपदं प्रकृत्यै प्रयुक्तम् ?
(ङ) ‘पालयामि’ क्रियापदस्य कर्तृपदं काकः? |

प्रश्न 14.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। (केवलं प्रश्नचतुष्टयम्)
रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए। (केवल चार प्रश्न) [1 × 4= 4]
(i) कोकिल: मधुमासे आम्रवृक्षे स्थित्वा गायति।
(ii) प्रकृतिः सर्वान् जीवान् स्नेहेन परिपालयति ।
(iii) भगवद्गीता महाभारतस्य अंशः अस्ति।
(iv) चञ्चलं मनः अभ्यासेन वशं भवति ।
(v) त्यागसमं सुखम् नास्ति।
उत्तर:
(i) कः मधुमासे आम्रवृक्षे स्थित्वा गायति ।
(ii) प्रकृतिः कान् जीवान् स्नेहेन परिपालयति ।
(iii) भगवद्गीता कस्य अंशः अस्ति।
(iv) चञ्चलं मनः केन वशं भवति ।
(v) त्यागसमं कि नास्ति।

प्रश्न 15.
मजूषातः समुचितपदानि चित्वा अधोलिखितश्लोकयोः अन्वयं पूरयत।
मञ्जूषा में से समुचित पद चुनकर निम्नलिखित दोनों श्लोकों के अन्वय को पूर्ण कीजिए। [1/2 × 8 = 4]
(क) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि ।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः।।
अन्वयः यथा चित्ते (i) …… तथा यदि वाचि (ii) …… । (iii) …… तथ्यतः तदेव (iv) …… इति आहुः।
(ख) परमापद्गतेनापि नैव तात त्वया रणे।
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः।।
अन्वयः
तात! परम-आपद्गतेन अपि (i) …… रणे इदम् (ii) ……विशेषत: (iii) …… न एवं (iv) …… ।

मञ्जूषा
समत्वम्, महात्मानः, भवेत, अवक़ता, प्रयोक्तव्यम्, अस्त्रम, मानुषेषु, त्वया ।
उत्तर :
यथा चित्ते (i) अवक्रता तथा यदि वाचि
(ii) भवेत्
(iii) महात्मानः तथ्यतः तदेव
(iv) समत्वम इति आहुः ।
(ख) तात! परम-आपद्गतेन अपि (i) त्वया रणे इदम् (ii) अस्त्रम्
(iii) विशेषतः मानुषेषु न एवं प्रयोक्तव्यम्।

प्रश्न 16.
अधोलिखितानां कथनानां समुचित भावं विकल्पेभ्यः चित्वा लिखत। (केवलं प्रश्नचतुष्टयम्)
निम्नलिखित कथनों का समुचित भावे विकल्पों में से चुनकर लिखिए। (केवल चार प्रश्न) [1 × 4= 4]
(क) परमहम् अखण्ड: शाश्वत’: विभुः च ।।
(i) शिशुवत्
(ii) नित्यः
(iii) सारस्वतः।
(ख) ‘परुषां’ वाचं न अभ्युदीरयेत् ।
(i) मधुराम्।
(ii) गर्वयुक्ताम्
(iii) कठोराम्।
(ग) सः सत्येन पाणिना चक्रम् गृहीतवान्।
(i) हस्तेन
(ii) पादेन ।
(iii) दण्डेन।
(घ) सम्यक् अभिज्ञातम्।
(i) समानरूपेण
(ii) वस्तुतः
(iii) सुष्ठुरूपेण ।
(ङ) सर्वस्तरतु दुर्गाणि ।
(i) विघ्नानि
(ii) भवनानि
(iii) मन्दिराणि ।
उत्तर :
(क) परमहम् अखण्डः नित्यः विभुः च ।
(ख) कठोराम् वाचं न अभ्युदीरयेत् ।
(ग) सः सत्येन हस्तेन चक्रम् गृहीतवान्।
(घ) सुष्ठुरूपेण अभिज्ञातम्।
(ङ) सर्वस्तरतु विघ्नानि।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Free Web Hosting