You cannot copy content of this page

Sanskrit translation of chapter 9 क्रीडास्पर्धा in hindi class 6

क्रीडास्पर्धा


हुमा – यूयं कुत्र गच्छथ?
इन्दर: – वयं विद्यालयं गच्छाम:।
फेकन: – तत्र क्रीडास्पर्धा: सन्ति। वयं खेलिष्याम:।

रामचरण: – किं स्पर्धा: केवलं बालकेभ्य: एवं सन्ति?

प्रसन्‍ना – नहि, बालिका: अपि खेलिष्यन्ति।

रामचरण: – कि यूयं सर्वे एकस्मिन्‌ दले स्थ? अथवा पृथक्‌-पृथक्‌ दले?
प्रसन्‍ना – तत्र बालिका: बालका: च मिलित्वा खेलिष्यन्ति।

फेकन: – आम्‌, बेडमिंटन-क्रीडायां मम सहभागिनी जूली अस्ति।
प्रसन्‍ना – एतद्‌ अतिरिक्‍तं कबड्डी, नियुद्धं, क्रिकेट, पादकन्दुकं , हस्तकन्दुकं ,
चतुरङ्ग: इत्यादय: स्पर्धा: भविष्यन्ति।
इन्दर: – हमे! कि त्वं न क्रीडसि? तव भगिनी तु मम पक्षे क्रीडति।

हुमा – नहि, मह्यं चलचित्रं रोचते। परम्‌ अतन्र अहं दर्शकरूपेण स्थास्यामि।
फेकन: – अहो! पूरन: कुत्र अस्ति? कि स: कस्यामपि स्पर्धायां प्रतिभागी
नास्ति?

रामचरण: – स: द्र॒ष्टु न शक्‍नोति। तस्मेै अस्माकं विद्यालये पठनाय तु
विशेषव्यवस्था वर्तते। परं क्रीडाये प्रबन्ध: नास्ति।

हुमा – अयं कथमपि न न्यायसङ्गत:। पूरन: सक्षम:, पर प्रबन्धस्य
अभावात्‌ क्रीडितुं न शक्‍नोति।

इन्दरः – अस्मार्क तादृशानि अनेकानि मित्राणि सन्ति। वस्तुतः तानि अन्यथासमर्थानि।

फेकन: – अत: वयं सर्वे प्राचार्य मिलाम:। तं कथयाम:। शीघ्रमेव तेषां कृते
व्यवस्था भविष्यति।

 


 

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Free Web Hosting